|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.253. अध्यायः 253
Mahabharata - Vana Parva - Chapter Topics
पातालवासिभिर्दैत्यदानवैर्दुर्योधनंप्रति हेतूपन्यासपूर्वकं प्रायोपवेशनिश्चयान्निवर्तनम् ॥ 1 ॥ पुनः कृत्यया दुर्योधनस्य पूर्वस्थानंप्रत्यानयनम् ॥ 2 ॥ परेद्युः कर्णादिप्रार्थनया दुर्योधनेन सर्वैः सह स्वपुरंपरत्यागमनम् ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text
दानवा ऊचुः। 3-253-0x(2621)(25706)
भोः सुयोधन राजेन्द्र भरतानां कुलोद्वह।
शूरैः परिवृतो नित्यं तथैव च महात्मभिः ॥ 3-253-1(25707)
अकार्षीः साहसमिदं कस्मात्प्रायोपवेशनम्।
आत्मत्यागी ह्यधो याति वाच्यतां चायशस्करीम् ॥ 3-253-2(25708)
न हि कार्यविरुद्धेषु बहुपापेषु कर्मसु।
मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥ 3-253-3(25709)
नियच्छैनां मतिं राजन्धर्मार्थसुखनाशिनीम्।
यशःप्रतापवीर्यघ्नीं शत्रूणां हर्षवर्धनीम् ॥ 3-253-4(25710)
श्रूयतां तु प्रभो तत्त्वं दिव्यतां चात्मनो नृप।
निर्माणं च रशरीरस्य ततो धैर्यमवाप्नुहि ॥ 3-253-5(25711)
पुरा त्व तपसाऽस्माभिर्लब्धो राजन्महेश्वरात्।
पूर्वकायश्च ते सर्वो निर्मितो वज्रसंचयैः ॥ 3-253-6(25712)
अस्त्रैरभेद्यः शस्त्रैश्चाप्यधःकायश्च तेऽनघ।
कृतः पुष्पमयो देव्या रूपतस्त्रीमनोहरः ॥ 3-253-7(25713)
एवमीश्वरसंयुक्तस्तव देहो नृपोत्तम।
देव्या च राजशार्दूल दिव्यस्त्वं हि न मानुषः ॥ 3-253-8(25714)
क्षत्रियाश्च महावीर्या भगदत्तपुरोगमाः।
दिव्यास्त्रविदुषः शूराः क्षपयिष्यन्ति ते रिपून् ॥ 3-253-9(25715)
तदलं ते विषादेन भयं तव न विद्यते।
सहायार्थं च ते वीराः संभूता बुवि दानवाः ॥ 3-253-10(25716)
भीष्मद्रोणकृपादींश्च प्रवेक्ष्यन्त्यपरेऽसुराः।
यैराविष्टा घृणां त्यक्त्वा योत्स्यन्ते तव वैरिभिः ॥ 3-253-11(25717)
नैव पुत्रान्न च भ्रातॄन्न पितॄन्न च बान्धवान्।
नैव शिष्यान्न च ज्ञातीन्न बालान्त्यविरान्न च।
युधि संप्रहरिष्यन्तो मोक्ष्यन्ति कुरुसत्तम ॥ 3-253-12(25718)
निःस्नेहा दानवाविष्टाः समाक्रान्तेऽन्तरात्मनि।
प्रहरिष्यन्ति बन्धुभ्यः स्नेहमुत्सृज्य दूरतः ॥ 3-253-13(25719)
हृष्टाः पुरुषशार्दूलाः कलुषीकृतमानसाः।
अनभिज्ञातमूलाश्च दैवाच्च विधिनिर्मितात्।
व्याभाषमाणाश्चान्योन्यं न मे जीवन्विमोक्ष्यसे ॥ 3-253-14(25720)
सर्वे शस्त्रास्त्रमोक्षेण पौरुषे समवस्थिताः।
श्लाघमानाः कुरुश्रेष्ठ करिष्यन्ति जनक्षयम् ॥ 3-253-15(25721)
तेपि पञ्च महात्मानः प्रतियोत्सन्ति पाण्डवाः।
वधं चैषां करिष्यन्ति दैवयुक्ता महाबलाः ॥ 3-253-16(25722)
दैत्यरक्षोगणाश्चैव संभूताः क्षत्रयोनिषु।
योत्स्यन्ति युधि विक्रम्य शत्रुभिस्तव पार्थिव ॥ 3-253-17(25723)
गदाभिर्मुसलैः शूलैः शस्त्रैरुच्चावचैस्तथा।
`प्रहरिष्यनति ते वीरास्तवारिषु महाबलाः' ॥ 3-253-18(25724)
यच्च तेऽन्तर्गतं वीर भयमर्जुनसंभवम्।
तत्रापि विहितोऽस्माभिर्वधोपायोऽर्जुनस्य वै ॥ 3-253-19(25725)
हतस्य नरकस्यात्मा कर्णमूर्तिमुपाश्रितः।
तद्वैरं संस्मरन्वीर योत्स्यते केशवार्जुनौ ॥ 3-253-20(25726)
स ते विक्रमशौण्डीरो रणे पार्थं विजेष्यति।
कर्णः प्रहरतांश्रेष्ठः सर्वांश्चारीन्महारथः ॥ 3-253-21(25727)
ज्ञात्वैतच्छद्मना वज्री रक्षार्थं सव्यसाचिनः।
कुण्डले कवचं चैव कर्णस्यापहरिष्यति ॥ 3-253-22(25728)
तस्मादस्माभिरप्यत्र दैत्याः शतसहस्रशः।
नियुक्ता राक्षसाश्चैव ये ते संशप्तका इति।
प्रख्यातास्तेऽर्जुनं वीरं युधि हिंस्यन्ति मा शुचः ॥ 3-253-23(25729)
असपत्ना त्वया हीयं भोक्तव्या वसुधा नृप।
मा विषादं गमस्तस्मान्नैतत्त्वय्युपपद्यते ॥ 3-253-24(25730)
विनष्टे त्वयि चास्माकं पक्षो हीयेत कौरव।
गच्छ वीर न ते बुद्धिरन्या कार्या कथंचन।
त्वमस्माकं गतिर्नित्यं देवतानां च पाण्डवाः ॥ 3-253-25(25731)
वैशम्पायन उवाच। 3-253-26x(2622)
एवमुक्त्वा परिष्वज्य दैत्यास्तं राजकुञ्जरम्।
समाश्वास्य च दुर्धर्षं पुत्रवद्दानवर्षभाः ॥ 3-253-26(25732)
स्थिरां कृत्वा बुद्धिमस्य प्रियाण्युक्त्वा च भारत।
गम्यतामित्यनुज्ञाय जयमाप्नुहि चेत्यथ ॥ 3-253-27(25733)
तैर्विसृष्टं महाबाहुं कृत्या सैवानयत्पुरः।
तमेव देशं यत्रासौ तदा प्रायमुपाविशत् ॥ 3-253-28(25734)
प्रतिनिक्षिप्यतं वीरं कृत्या समभिपूज्य च।
अनुज्ञाता च राज्ञा सा तत्रैवान्तरधीयत ॥ 3-253-29(25735)
गतायामथ तस्यां तु राजा दुर्योधनस्तदा।
स्वप्नभूतमिदं सर्वमचिन्तयत भारत ॥ 3-253-30(25736)
`संमृश्य तानि वाक्यानि दानवोक्तानि दुर्मतेः'।
विजेष्यामि रणे पाण्डूनिति चास्याभवनमतिः ॥ 3-253-31(25737)
कर्णं संशप्तकांश्चैव पार्थस्यामित्रघातिनः।
अमन्यत वधे युक्तान्समर्थांश्च सुयोधनः ॥ 3-253-32(25738)
एवमाशा दृढा तस् धार्तराष्ट्रस् दुर्मतेः।
विनिर्जये पाण्डवानामभवद्भरतर्षभ ॥ 3-253-33(25739)
कर्णोऽप्याविष्टचित्तात्मा नरकस्यान्तरात्मना।
अर्जुनस्य वधे क्रूरां करोति स्म तदा मतिम् ॥ 3-253-34(25740)
संशप्तकाश्च ते वीरा राक्षसाविष्टचेतसः।
रजस्तमोभ्यामाक्रान्ताः फाल्गुनस्य वधैषिणः ॥ 3-253-35(25741)
भीष्मद्रोणकृपाद्याश्च दानवाक्रान्तचेतसः।
न तथा पाण्डुपुत्राणां स्नेहवन्तोऽभवंस्तदा ॥ 3-253-36(25742)
न चाचचक्षे कस्मैचिदेतद्राजा सुयोधनः।
`कृत्ययाऽऽनाय्यकथितं यदस्य निशि दानवैः' ॥ 3-253-37(25743)
दुर्योधनं निशन्ते च कर्णो वैकर्तनोऽब्रवीत्।
स्मयन्निवाञ्जलिं कृत्वा पार्थिवं हेतुमद्वचः ॥ 3-253-38(25744)
न मृतो जयते शत्रूञ्जीवन्भद्राणि पश्यति।
मृतस्य भद्राणि कुतः कौरवेय कुतो जयः ॥ 3-253-39(25745)
न कालाऽद्य विषादस्य भयस्य मरणस्य वा।
परिष्वज्याब्रवीच्चैवनं भुजाभ्यां स महाभुजः ॥ 3-253-40(25746)
उत्तिष्ठ राजन्किं शेषे कस्माच्छोचसि शत्रुहन्।
शत्रून्प्रताप्य वीर्येण स कथं मर्तुमर्हसि ॥ 3-253-41(25747)
अथवा ते भयं जातं दृष्ट्वाऽर्जुनपराक्रमम्।
सत्यंते प्रतिजानामि वधिष्यामि रणेऽर्जुनम् ॥ 3-253-42(25748)
गते त्रयोदशे वर्षे सत्येनायुधमालभे।
आनयिष्याम्यहं पार्तान्वशं तव जनाधिप ॥ 3-253-43(25749)
एवमुक्तस्तु कर्णेन दैत्यानां वचनात्तथा।
प्रणिपातेन चाप्येषामुदतिष्ठत्सुयोधनः ॥ 3-253-44(25750)
दैत्यानां तद्वचः श्रुत्वा हृदि कृत्वा स्थिरां मतिम्।
ततो मनुजशार्दूलो योजयामास वाहिनीम्।
रथनागाश्वफलिलां पदातिजनसंकुलाम् ॥ 3-253-45(25751)
गङ्गौघप्रतिमा चास्य प्रयाणे शुशुभे चमूः ॥ 3-253-46(25752)
श्वेतच्छत्रैः पताकाभिश्चामरैश्च सुपाण्डुरैः।
रथैर्नागैः पदातैश्च शुशुभेऽतीव संकुला ॥ 3-253-47(25753)
व्यपेताभ्रघने काले द्यौरिवासीत्तु शारदी।
`हंसपङ्क्तिसमाकीर्णा भ्रमत्सारसशोभिता' ॥ 3-253-48(25754)
जयाशीर्भिर्द्विजेन्द्रैः स स्तूयमानोऽधिराजवत्।
गृह्णन्नञ्जलिमालाश्च धार्तराष्ट्रो जनाधिपः ॥ 3-253-49(25755)
सुयोधनो ययावग्रे श्रिया परमया ज्वलम्।
कर्णेन सार्धं राजेन्द्र सौबलेन च देविना ॥ 3-253-50(25756)
दुःशासनादयश्चास्य भ्रातरः सर्व एव ते।
भूरिश्रवाः सोमदत्तो माराजश्च बाह्लिकः ॥ 3-253-51(25757)
रथैर्नानाविधाकारैर्हयैर्गजवरैस्तथा।
प्रयान्तं नृपसिंहं तमनुजग्मुः कुरूद्वहाः ॥ 3-253-52(25758)
`प्रहृष्टमनसः सर्वे दुर्योधनपुरोगमाः' ॥
कालेनाल्पेन राजेन्द्र स्वपुरं विविशुस्तदा ॥ 3-253-53(25759)
इति श्रीमन्महाभारते अरण्यपर्वणि घोषयात्रापर्वणि त्रिपञ्चाशदधिकद्विशततमोऽध्यायः ॥ 253 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-253-21 विक्रमे शत्रुजये। शौण्डीरः समर्थः ॥ 3-253-27 जयमाप्रुहि चेत्युक्त्वेति शेषः। अथ तैर्विसृष्टमिति संबन्धः ॥ 3-253-34 अन्तरात्मना मनसा ॥ 3-253-36 पाण्डुपुत्राणामुपरीति शेषः ॥ 3-253-44 एषां दुःशासनादीनाम् ॥ 3-253-48 व्यपेतः अभ्रघनः मेघ्नविस्तारो यस्मिन् शरदीत्यर्थः ॥ 3-253-49 अधिराजा सार्वभौमो युधिष्ठिरस्तद्वत् ॥ 3-253-50 देविना द्यूतरतेन ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|